________________
२२
पद्मसुन्दरसूरिविरचित निधीयतामालि ! मरालपुङ्गवो
निधानवल्लोहितरत्नपारे । सखीजने सोत्कलिके तदाहूतौ
खगः स गीर्वाणगिरेत्यरीरणत् ।।१५।।
श्रुतं न चातिथ्यमिदं श्रते क्वचित्
प्रियातिथियकिल चारमर्हति । सुवृत्तमद्वाचिकमौक्तिकस्रज
कुरु स्वकण्ठे कलकण्ठि ! मुञ्च माम् ॥५६।।
ततो नरेन्द्रात्मजया विसिष्मिये
खगे कुतः स्फूर्तिमियति दिव्यवाक । वितर्किताऽहं यदनेन तत्खगः
कदाचिदर्थान्तरनिहनुतो भवेत् ।।५७।।
विमृश्य बालेति जगाद रीढया
भवान्मया विप्रकृतो न तद्धितम् । वयं नु मुग्धा हि भवादृशां यतोऽ
नभिज्ञदोषो न विगानमर्हति ।।५८।।
महत्प्रसङ्गेन कदापि चेतनो
मनोगतं भावयते मनोरथम् । विवक्षितं तद्वद मे प्रियंवद !
प्रियं पुनर्येन मनः सुखायते ॥५९।।
अथाचचक्षे खगराइनिशामय
प्रबुद्धपक्केरुहचारुलोचने । इहास्ति विद्याधरपूरपूर्वया
श्रिया विनिर्भसिंतनिर्जरालया ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org