________________
Jain Education International
यदुसुन्दर महाकाव्य
अथ स्वसौधाग्रतले नृपात्मजा
ज्वलच्छिखावन्तमिवाम्बर। जिरान्
स्थिताऽऽलिभिः कल्पितकेलिकौतुका ।
मरालमायान्तमिह
व्यलोकयत्
सवेगझाङ्कारित पक्षतिः
खगः
प्रडीनसण्डीनगतिक्रियापटुः ।
क्रमादवातीतरदेतदालय
प्रकाण्डभित्तौ मणिमञ्जुलघुति ॥५०॥
स रोहितत्रोटिहगंहि सुन्दरः
स्फुरच्छरच्चन्द्रमरीचिपाण्डुरः । तया दृशाऽपीयत हार्दसान्द्रया
निमेपया वैधसपत्रजैत्ररुक् ॥ ५१ ॥
किमेष धातुः पदपद्मसद्मभू
विलासशाली कलकण्ठनिःस्वनः 1 अथो गिरांदेवतया समीरितः
किलैष दध्याविति लोललोचना ॥५२॥
अयत्नलब्धः किल कल्पपादप
स्तदस्तु लीलाकलहंस एष मे । सुदिष्टलभ्ये स्फुटमिष्टवस्तुनि
प्रमोदभूमौ प्रयतेत को न वा ॥५३॥
इति ब्रुवाणा वरवर्णिनी निजे
कराम्बुजे तं विनिवेश्य लीलया ।
चिखेल लीलाकमलेन वेन्दिरा
।।४५ ॥
स्वपाणिपद्मेन ममाज तत्तनुम् ॥५४॥
For Private & Personal Use Only
२१
www.jainelibrary.org