________________
पद्मसुन्दरसरिविरचित
त्वदाननस्पर्धनजातयक्ष्मणः
प्रसीद नम्रस्य तवेति भामिनि । कृतागसः किं नखरच्छविच्छलात्
स पापतिस्तत्क्रममिन्दुमण्डलः ॥४३॥
गतेषु पीनस्तनभारमन्थर
स्पदेषु सा बन्धुरकन्धरानना । अशिक्षयद्राजमरालगामिनी
मरालमालां किल हंसकस्वनैः ॥४४।।
सुधा सुधा सा मधुरा न गोस्तनी
सिता सिता संयति यगिरा ननु । सुधा-किराकर्णितया नु कर्णयो
रपारयत्पारणकं सुधाभुजाम् ॥४५।।
तदा तदासेचनकं निदर्शनं
निरुप्य रूपस्य विधिविधाय ताम् ।। सुतारतार्थीति पुरा परासित
___ व्रतो बभूव श्रुतिविश्रुतः किमु ॥४६।।
प्रमाणशास्त्रे सुतरामधीतिनी
सुगद्यपद्यश्रुततत्त्वसाक्षिणी । समस्तविद्याविदुषी बभूव सा
धिया रुचा वा ननु भारती रतिः ।।४७
वरो वरोऽस्याः सदृशो दृशोऽथवा
न गोचरश्चतसि चेत्यचिन्तयत् । पिता सुता मे भविता स्वयम्वरा
स्वयं समारम्भि ततः स्वयम्वरः ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org