________________
यदुसुन्दरमहाकाव्य
तरुयुग्मेन महेन्द्रकुम्मिनः
करो विजिग्ये स्वकरैः सुमेदुरैः । ततो नु दृग्गोचरतः पलायितः
स्वमेव गोपायति यस्त्रपाभरात् ।।३७।।
वने नु रम्भाऽपि यदूरुचारुतां
समाददाना यदभिध्ययाऽवसत् । च्छदच्छिदाऽसीमसुसीमधर्मजं
सहिष्णुराभीलमधःशिराः स्फुटम् ॥३८॥
तदीयपाणेः करभस्तदूरुणा
लभेत किञ्चित्सुषमां तदौचिती । किमेतदीयेऽथ मनोभुवो बभौ
सुसक्थिनी स्तम्भयुगं जयश्रियः ॥३९॥
तदीयजङ्घायुगलं सुमायुधः
स्ववाणतूणीरविधां विधाय यः । पराजितः प्राम्भववैरिणि ध्रुवं
द्विधा ऽस्त्रभृत्किं पुनरभ्यषेणयत् ॥४०॥
तदह्रियुग्माम्बुजरागरोचिरा
दधत्पुनः कोकनदं प्रमोदते । प्रवातकम्पैरिव नृत्यभङ्गिभि
र्मुहुर्नरीनृत्यत एव लीलया ॥४१॥
निरुच्यते तत्पदयोलवः स्वयं
सपल्लवस्तत्तुलनां करोतु किम् । विभाति कल्पः किल तत्क्रमाम्बुजं ।
ततोऽनुकल्पो ननु पङ्कजावली ॥४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org