________________
१८
Jain Education International
पद्मसुन्दरसूरिविरचित
तदीयनाभिः किल कामयज्वनो
ध्रुवं हवित्री रुचिहव्यवाहना ।
अरालरोमावलिघूमनीलिमा
निरेत्युदग्रः कथमन्यथा ततः ।। ३१ ।।
वलित्रयारोहण मंशुवारिभिः परीतमेतचनु रोमता कुशैः ॥
तदीयना भी शुभतीर्थमत्र कि
चकार कामः कमनीयतर्पणम् ॥३२॥
पुरा विसस्मार विधिर्विधानता
मुरोजयुग्मस्य विलग्नलग्नतः । विभागतो यन्निरमायि तद्वयं
ततोऽणुमध्या किमभूत्सुमध्यमा ॥३३॥
अणुद्वयं यन्निरधारि वेधसा
प्रधानसर्गे तत एव निर्ममे ।
तदेतदीयोदरमंश संशय
व्यक्ति कोटिद्वयरूढसत्त्वतः ॥ ३४ ॥
कटिः कृशाऽस्याः किमु कामकामिनः कलत्रमीष्टे तदीयचापस्य किमस्ति लस्तकः
रतकेलिसारताम् ।
करस्य मुष्टिग्रहनामियाय यत्
॥३५॥
यदीयकाञ्चीपदचारुचातुरी
निरीक्ष्य हर्यक्ष इयाय काननम् । वनस्थवृत्त्या निरनुप्लवोऽजहा
त्परानुषङ्गा नु विलज्जितो हिया || ३६ ||
For Private & Personal Use Only
www.jainelibrary.org