________________
यदुसुन्दरमहाकाव्य
यदीयरोमालिलताप्रतानिनी
सुगुच्छयुग्मं कुचमण्डलद्वयम् । विभाति शोचिर्झरसन्न यौवनो
न्मदेभकुम्भद्वयमुल्ललास किम् ॥२५॥
यदाननेन्दुप्रभया वियोजित
सुवत्सकासारतटोषितं किल । अतिष्ठदेतत्कुचकोकयुग्मक
विधेर्निदेशो दुरतिक्रमोऽङ्गिनाम् ॥२६॥
किमेतदीया स्मरभिल्लपल्लिका-
कुचद्वयी यामधिशय्य मन्मथः । स्वकर्णजाहं शरमाकलय्य च
व्यदारयत्कामिकुरङ्गसंहितम् ॥२७॥
तदीयरोमावलिरन्दुकोऽगलत्
प्रभिन्नवक्षोजमहेभगात्रतः । ध्रुवं सृणिर्वा स्मरवारणस्य सा
विनीलरत्नातिभङ्गभगुरा ॥२८॥
इयं स्मरारामिकवृक्षवाटिका
· स्तनारघट्टस्फुटरोममालिनी । जनी सुलावण्यजलाविलान्तर
स्वनाभिकूपप्रगुणीकृता खलु
॥२९॥
बभार लावण्यसरोऽम्बुपूरितं
स्फुट रतिप्रीतिनितम्बिनीद्वयम् । सुजातरूपस्तनकुम्भयोयुगं
समाहितेन्दीवरचारुचूचुकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org