________________
१६
Jain Education International
पद्मसुन्दरसूरिविरचित
तथा च तस्यां मृदुबाहुवल्लरी
पराजितं किं नलिनं निषेवते । जलप्रपातं समृणालनालक
पराभवान्मञ्जुलमम्बुमज्जनम् ॥१२
कुमुद्वती यत्करकुड्रमलत्विषा
जिता द्विरेफस्रजमावहन्त्यपि । तपस्यती वै तदभीशुलिप्सया
सुमर्षशीतातपवातपातना ॥२०॥
यदङ्गुलीपञ्चकमर्धचन्द्रकाः
स्मरस्य बाणा युववर्धनोदधुराः । ध्रुवं बभुः किंशुकपुष्पधन्वता
स माधवस्यास्य विजृम्भतेऽथवा ॥२१॥
अहो ! महोत्पातपरम्परा ध्रुव
सुकामिवर्गस्य विभाव्यते यतः । यदीयहस्तः स पुनर्भवो बभौ
नमः प्रदोषे किल पञ्चचन्द्रकम् ॥२२॥
किमङ्कुरैः पल्लवित प्रवालजैः
पद्मरागैरुत कोरकायितम् ।
दीपाणिद्युतिकोटिरुत्थिता
प्रमाणबाधां तनुते प्रसञ्जनैः ||२३||
अनङ्गतारुण्ययुगं तदीयसद्
वपुः प्रभानिर्झरमग्नमुन्नतम् ।
कुचेभकुम्भद्वयमाप्य हेलयाs
-
त्यहस्तयत् किं किल रोचिरोघतम् || २४ ॥
For Private & Personal Use Only
www.jainelibrary.org