________________
दुसुन्दरमहाकाव्य
यतोऽधरं बिम्बमिति स्फुटान्वया
यदीयबिम्बाधरपञ्जिका किल ।
प्रवाल इत्येव किल प्रवालतां
Jain Education International
दधच्च तेनाभिधयैव धिक्कृतः ॥ १३ ॥
श्रवोलताsस्या युवता नियन्त्रणे
चकास्ति पाशः किल कामपाशिनः । रथद्वय वा ननु यौवनस्मर
द्वयस्य यत्कर्णयुगं विहारिणः ॥१४॥
गिरां रसज्ञाssसनगाधिदेवतोपवीणयत्याननपङ्कजालया । तथा हि तस्या द्विजहंसमण्डली
गुणानुपश्लोकयतीव सुस्वरा ।। १५ ।।
मुखेन तस्या ननु निर्जितो विधु
द्विधाकृतात्मा विधुरो यदाधितः । कपोलबिम्बद्वयरूपभृत्ततः
सरूपयत्याननपङ्कजश्रियः ॥ १६ ॥
यदीयनांसाद्युतिभिस्तिरस्कृतः
शुको विज हे वनवासिभिर्वनम् । जगजिगीषोर्ननु पुष्पधन्वनोऽ
दसीयनासाविवरं निषङ्गति ॥१७॥
न किन्नरी काऽपि न चापि कच्छपी
न कोऽपि पुंस्कोकिलकाकलीगुणः । इति त्रिरेखाबलयेन मन्महे
स्फुटं सुकण्ठ्या उपकण्ठमास्यते ॥ १८ ॥
For Private & Personal Use Only
१५
www.jainelibrary.org