________________
४
पद्मसुन्दरसूरिविरचित
सुकैशिकापास्तशिखण्डिनां गणः .
किमु त्रपातो गहनं व्यगाहत । अथो सुकेश्या मुखचन्द्रमण्डल
ग्रहाय कैश्यं तम ईप्सति ध्रुवम् ॥७।।
यदीयवेणी भववेध्यकुण्ठिता
स्वबाणवीर्यस्य मनोभुवः किमु । . गृहीतहेतेरसिरस्त्रनिग्रहे
भटस्य शस्त्रग्रह एव शस्यते ।।८।।
किमु भ्रुवौ यौवनकामयाभिथः
सखित्वसंयोजितमङगुलिद्वयम् । अथेदमीये हरदग्धमन्मथ
प्रसूनकोदण्डरजो विजृम्भते ।।९॥
यदाननेन्दुस्थितचन्द्रिकोज्ज्वलो
व्यदिद्युतत्कुन्तलताऽभ्रमण्डले। किमेतदीयाननराजचिह्नता
रराज यत्कैशिकलाञ्छनच्छलात् ॥१०॥
यदोयकेशोपवने यदानन
सरः प्रभाजालजलौघसम्भृतम् । प्रफुल्लसल्लोचनपङ्कजश्रि तत्
किमेतदिन्दीवरितं नभोऽथवा ॥११॥
विदिद्युते यद्विजपङ्क्तिरुज्ज्वला
कषायितस्वाधरवाससाऽऽवृता । समञ्जस कोकनदेऽत्र मौक्तिकं
दधौ प्रवाले किमु वज्रतां विधिः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org