________________
यदुसुन्दरमहाकाव्य
हरिन्मणिच्छन्नतलासु मांसल
पभासु पद्यासु विभिन्नचञ्चवः । पतन्ति पित्सन्स इहाङ्कुराशया
विशालशालेयविभासु यत्र च ॥६१॥
यदीयविद्याधरराजमण्डली
निलीय तस्थावणिमादिभूतिषु । प्रकर्षरूपप्रतिरूपशालिनी
दमीयसौन्दर्यविनिर्जिताऽपि या ।।६२।।
शौरिस्तदा खचरयौवतनेत्रराजी
राजीव पंक्तिभिरलक्रियते स्म तत्र । यत्सन्निधावपि निधौ वसतेः प्रयाते
को वा कवाटघटनां विदधीत धीमान् ।।६।।
विद्याधरैरपि तदा विदितानुभावै
रातिथ्यमस्य सुतरां विधिवद्व्यधायि । सन्तः सतां शुभमजयंमदृष्टयोगात्
प्रापय्य हि स्वजननं चरितार्थयन्ति ।।६४।।
तस्मै प्रसन्नहृदयैरपि तैरदायि
. या रोहिणीप्रभृतयः खगवन्धविद्याः । सद्यः प्रसादवरदा अभवन्नये हि
यदुर्लभं सुलभतामपि तद्विभर्ति ॥६५॥
सौभाग्यशेवधिरिति प्रसमीक्ष्य दत्त्वा
भूयः स खेचरकनी: परिणीय यह्वीः । इन्दाञ्चकार सफलेन्दुरिव प्रभाभि
ज्योत्स्नीनिशि स्वरमणीसुषमाभिरेषः ।।६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org