________________
पनसुन्दरसूरिविरचित
व्रजन्पुरग्रामशिलोच्चयादिकान्
सरिद्रुमारामविहारकौतुकान् । व्यतीत्य विद्याधरराजिराजितं
जगाम विद्याधरपत्तनं क्रमात् ।।५५।।
यदीयचामीकरसौधकुट्टिमा--
वनद्धचन्द्रोपलसन्द्रवन्मधु । निपीय पीयूषमिवालिमालया
विशेष ईषे न सरोजराजिषु ॥५६।।
अदभ्रशुभाश्मशिलावितर्दिषु
प्रकाशसक्रान्तविरोचनविषा । पुरस्त्रियो राजतकुम्भविभ्रम
विभाव्य यत्र स्वकरप्रथां व्यधुः ॥५७।।
यदीयसिद्धायतनप्रधूपित
प्रधानराजाहजधूमडम्बरैः । शिखावले१दिनमेव सर्वदा
विमुक्तकेकाविरुतैर्विभाव्यते
॥५८।।
कयापि पत्या मणिमण्डपस्थया
मणिप्रतिच्छायितदेहवेष्टया । परानुरागीत्यसि विप्रलम्भने
रहस्युपालभ्यत यत्र वल्लभः ॥५९।।
सुशोणरलोपलनद्धभूतला
स्तुषारनीश अपि यत्र दीर्घिकाः । न तासु तृष्णग्दयितागणोऽपि सन्
पिवत्यहो ! शोणितशोणिमभ्रमात् ॥६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org