________________
यदुसुन्दरमहाकाव्य
तदिङ्गितज्ञः स परामृशद्वचो
हितं क्वचित्स्यादहितप्रयोजकम् । सुधीशा सूक्ष्मदृशो हि विष्टपं
विलोकयन्ति स्म दृशा परे पुनः ॥४९।।
अहो ! महामानधनार्थिनः कदा
न नीचवृत्त्या निजवर्तनं व्यधुः । सुचातकश्चारुपयः पयोमुचां.
समुत्समुत्कन्धर एव पीयते
॥५०॥
ध्रुवं सधाम्नामिह धामजीवितं
विनैव तज्जन्ममनीषितं मुधा । इति ब्रुवन्नस्तमियाय भास्करः
प्रतापमान्द्यं महतां सुदुर्वहम् ॥५१।।
अरुन्तुदो दुर्विषहो मनस्विनां
स्वबन्धुवर्गस्य वचः शिलीमुखः । वरं विदेशः कलुषे हि मानसे
न सन्मरालस्थितिरत्र शोभना ।।५२।।
विचित्रविज्ञानकलासु कौशल
स्वभागधेयस्य फलं प्रकाशते । विजृम्भते कीर्तिरुदेति पौरुषं
गुणेषु धैर्य विषयान्तरक्रमात् ॥५३।।
इति स्वचेतस्यवधार्य निर्ययौ
कृपाणपाणिः परिणाहिभाग्यभाक । न चैकको गह्वरगाहनोद्यतो ।
मृगाधिपो नु प्लवतामपेक्षते ॥५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org