________________
पद्मसुन्दरसरिविरचित
परा करादर्शनिलीनतद्वपुः
समालिलिङ्ग प्रलथनीविबन्धना । पथि प्रयातोऽस्य गवाक्षगा परा .
___ कटाक्षनीलोत्पलमक्षिपत्पुरः ॥४३।।
तनूरुहानकुरयत्ययं तनौ
तनोति सीत्काररवं सवेपथुम् । विदारयत्योष्ठममुष्य सङ्गमो
हिमानिलः किं तरुणीष्वजृम्भत ॥४४॥
अथैकदा पौरजनः सदःस्थितं
समुद्रभूपालमदो व्यनिशपत् ।। पुराङ्गनाशीलपरासनोद्धत
स्तवामुजः सम्पति साम्प्रतं न नात् ॥४५॥
निवस्तुमीष्टे कथमत्र मादृशो .
भवादृशो यत्र बिलकमितकमः । पिता स्वपुत्रस्य निहन्ति हन्त चेत् .
जिजीविका तस्य कुतोऽकुतोभया ॥४६॥
ततस्तमाहूय नृपो रहोऽभ्यधा
न्नयापदेशोक्तिभिरेव चाटुभिः । अटाट्यया ते भविता मलीमसं
.. वपुर्वपुष्मन्नधितिष्ठ तद्गृहे ॥४७॥
श्रुतेष्वधीती रसिको रसायने
कवित्ववक्तृत्वकलाविलासवान् । अलकृतौ छन्दसि नाटकेऽचिरात्
प्रमाणमभ्यस्य विशारदो भव ॥४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org