________________
यदुसुन्दरमहाकाव्य
निस(क्ष)वो मे सुहृदो हृदिस्थिताः
श्रयन्तु दिक्चक्रमनम्रकन्धराः । समाचचक्षे किल यद्धनुर्गुणः
कठोरटक्काररवेण राजकम् ॥३७।।
विपक्षभूपालवधोत्थपातक
स्वकालकायत्वकलक्कशक्कया । असिस्तपस्वी किल यस्य वैरिता
यशःपयः किं व्रतयत्यनारतम् ॥३८॥
विहारचारे विहरन्पुराना
विलोलहक्कैरवकौमुदीपतिः । । कयाचन प्रेमसुधोमिसान्द्रया
दृशा स्मरात्मा वसुदेव ऐक्ष्यत ।।३९।।
परा दृशाऽपीयत पीवरस्तनी
दमीयसौन्दर्यसुधातरङ्गितम् । अमूमुहद्रगदनविभ्रम
स्खलद्गतिः काऽप्यदसीयलीलया ॥१०॥
कयाचिदाश्लिष्यत मन्मथान्धया
धिया तदारोपितसगरगया । यदीप्सितं वस्तु न हस्तगोचरं
मनोविनोदः खलु केन वार्यते ॥४१॥
परा त्रुटन्मौक्तिकदामगुम्फन
जनी दवद्यावकरागमण्डनम् । स्तनं धयन्तं च परा स्तनधयं
विहाय तदर्शनलालसाऽचलत् ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org