________________
पनसुन्दरसूरिविरचित तदुद्वहः कंस इति स्वरूढिता
गुणेन वित्तो यदुवंशसम्भवः । यदीयतेजस्तपनोष्मसाध्वसाद्
भवः स्वमौलौ सुरनिम्नगामधात् ॥३१॥
ततो जरासन्धनृपप्रसादतः
स्ववंशविध्वंसनृशंसकोणपः । हरस्व राज्यं पितुरुग्रसेनतो
मुषाण कोश जनकं बधान च ॥३२॥
पुषाण भोगानरिराजपत्तनं
क्षणादवस्कन्द नभान दुर्दमान् । क्लिशान दुःशासनृपोपवर्तन जिगाय जय्यानरिजैत्रविक्रमः ॥३३॥
॥ विशेषकम् ।। धिगेतकान्भङ्गुरभोगसङ्गमा
नवाप्तिरम्यानपुनरायतिद्रुहः । तृणेढि जन्यो जनकस्य यत्तृषा
तृणाननीरैः शममेति किं तृषा ॥३४॥
पतन्ति यज्जन्मनि नैव पूर्वजा
___अवीचिकृच्छ्रे तदपत्यमित्यपि । विदन्ति तज्ज्ञा अमुना जिजीविषत्
पितुः पुनर्व्यत्ययपञ्जिका कृता ॥३५॥ स भीमकान्तादिगुणैरलङ्कृतोऽ
प्यधृष्यधामाऽभवदुद्धतद्विषाम् । मृदुर्घदूनां नयचञ्चुपौरुषो
भनक्ति वायुटुंगणं न वीरणम् ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org