________________
यदुसुन्दरमाहाकाव्य
ततः कनीयाननुजो मनस्विनां
महत्तरो यो वसुधासुधाधिपः । सुभाग्यसौभाग्यकलाकलानिधि
निधिर्वसूनां वसुदेव इत्यभूत् ॥२५॥
यदीयकीर्तिव्रतते वाकुराः
सुदिश्यदन्तावलदन्तपङ्क्तयः । दलानि गङ्गाकुसुमानि तारकाः
फलान्यशीतांशुसितांशुशुक्तिजाः ॥२६॥
अथो नृपः शौरिरशेषभूतल
प्रभूतभूपालकभालभूषणः । न्यधापयत्स स्वदप सुवीरके
स्वयं मुमुक्षुर्गृहविग्रह ग्रहम्
॥२७॥
नृपः सुवीरो रिपुवीरविक्रम
प्रतापबालाकबलाहकोदयः । शशास सर्वामपि सागराम्बरां
.. स राजबीजी निजबीजिराज्यपः २८
तदङ्गजन्मा भुवि भोजवृष्णिरि
त्यभिव्ययाऽभूभुवनकभूषणः । द्विषन्महीन्द्रद्रमकुञ्जभञ्जन--
द्विपेन्द्रदेश्यः किल राजपुङ्गवः ॥२९॥
तदङ्गजोऽथोग्र इवोनसाहसो
य उग्रसेनः पितृविश्रमप्रदः । बभार भूभारमखण्डमण्डलं
धुरै धुरीणोऽधरदुर्वहामिव ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org