________________
पद्मसुन्दरसूरिविरचित
तदत्र राजन्वति राजति स्म राइ
यदुर्नदीमातृकनामनीवृति । यतोऽगमद्यादववंशसंकथा - प्रथां जगच्चित्तचकोरचन्द्रिका ।।१९।।
तदङ्गजः सूर इति प्रतापवान्
सुहृन्मनोऽम्भोजविकाशनक्षमः । दुहृद्वशःकैरवकोशमुद्रणा
निभालने सूर इवापरोऽभवत् ॥२०॥
तदुद्वहौ सौरिरथो सुवीर इ
त्यभिख्यय ज्येष्ठ कनिष्ठतां गतौ । निजान्ववायैकनभोनभोमणि
क्षपामणीव प्रसभं रराजतुः ॥२१॥ नृपस्य शो रेस्तनुजोऽन्धकोऽभवद्
रिपुक्रतुध्वंसनताऽधकारिवत् । ततः समुद्रोदरशुक्तिशुक्तिजा
बभुः समुद्रादय आत्मजा दश ।।२२।
दशाहदिक्चक्रशतक्रतूपमो
धनुष्मतां धामवतां धुरन्धरः । यदोजसः सवरतामसासहि
विधिय॑धादात्मकरे कमण्डलुम् ।।२३॥
समुद्रनामा
शिरोमणिः पूरुषरत्नशेवधिः । यशो यदीयं विललास पाण्डुरे सपत्नपत्नीकुचगण्डमण्डले ॥२४॥
॥ युग्मम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org