________________
पद्मसुन्दरसूरिविरचित
M
चन्द्रातपः खग इहास्य वयस्यरूपः
__सौहार्दमार्दवनिधिः सविधं सिषेवे । शौरिश्च तेन शशिनेव समुद्रपूरः
स्नेहोर्मिमेदुरमना मुहुरुल्ललास ॥६७।।
प्रीतिस्तयोः सवयसोर्वचनातिगाऽऽसीद्
ब्रह्मानुभूतिरिव सम्मदशर्मसान्द्रा । सख्यं नु तन्मनसि यत्र न भेदवृत्ति
श्वेतः प्रसादव(य)ति धीप्सति यः स पापः ।।६८।।
तत्रानिशं सहचरीकिलिकिञ्चितादि
___ लीलाभिरेष विजहार विहारदेशान् । ताभिर्बभौ सुरतसागरसत्तरीभिः
साक्षास्किलेष्य इव कोकिलकाकलीभिः ।।६९॥
सघनजघननीवीबन्धमोक्ष करिष्य
न्नरुणचरणसेवाचाटुकारं दधानः । स्मरशरभरपातव्यस्तलज्जाभिराभि--
नवनिधुवनलीलानर्मकेलिं ततान ।।७।।
इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपण्डितेशश्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये वसु
देवप्रस्थानं नाम प्रथमः सर्गः ॥१॥ ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org