________________
पद्मसुन्दरसूरिविरचित यदुसुन्दरमहाकाव्यम्
। एँ श्री जिनाय नमः । विनिद्रचन्द्रातपचारु भूर्भुवः
. स्वरीशमार्हन्त्यमनाद्यनश्वरम् । स्वचुम्बिसंविघृणिपुञ्जमञ्जरी
परीतचिद्रूपमुपास्महे महः ॥१॥ इहैव वर्षे यदुवंशपुङ्गवः
पवित्रिता विश्वजनीनविक्रमैः । लघूकृता द्यौरनया दिविस्थिता
स्वसम्पदोरुमथुरापुरी भुवि ॥२॥ सहस्रशीर्षः पुरुषो विभर्ति यां
शिरःसहस्रेण विदनगरीयसीम् । सहस्रपात्पादवरोऽसभाजय- |
त्परीत्य नित्यं परिवर्तनच्छलात् ॥३॥ यदङ्गनारूपनिरूपणाय वा
गुहः षडास्यश्चतुराननो विधिः । दिक्षया यौवतनर्ममर्मणां
हरिः सहस्राक्ष इब स्म यत्र भूत् ॥४॥ निराकृता नाकिनिकायमण्डली
निलीय दृक्कोणपथातिगाऽभवत् । यदू हैः सुन्दरतापराजितः
किमत्र पञ्चेषुरनगतामगात् ॥५॥ यदीयशालः कपिशीर्षशीर्षता
वतंसलाभाय सुरापगामिव । यियासुरेतत्कमलातिगर्भकं
चिकीर्षुरुच्चैःपदमारुरोह यत् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org