________________
पद्मसुन्दरसूरिविरचित
अदभ्रमभ्रंलिहसौधमण्डली
शिरःस्खलद्वाहरयादह र्पतिः । ध्रुवं चकारोत्तरदक्षिणायने
स भीतभीतोऽत्र यतस्तिरोऽश्चति ।।७।।
रविस्तटे यच्छिखरामलिप्सया
समाधियोगात्किल तप्यते तपः । कलिन्दकन्याकलदण्डमुदहन्
सुयोगपढें परिखामिषेण यत् ॥८॥
बहुक्षणमन्दिरतल्लजैरलं
विमानिता यत्र विमानसम्पदः । धनस्वरैयंत्र घनाघनध्वनिः
समं पराजीयत तूर्यनिःस्वनैः ॥९॥
दरस्मितस्मेरविलासिनीजनः
परिष्कृतो भूषणभूष्यमण्डलैः । सुपुष्पवन्तौ हसतीव पक्षयो
___ रहर्निश चञ्चदनश्चितश्रियौ ॥१०॥
गृहे गृहे खेलति यत्र खेलया
जनीयुगं स्त्रीगणरामणीयकम् । कराम्बुजे श्रीवंदने सरस्वती
विहाय पकरुहपक्कजाश्रयम् ॥११।। सदाऽर्हतामायतनेष्वगर्हिता
हणासु तौर्यत्रिकनादडम्बरैः । ज्यधत्त सांराविणमाहतो जनः
किलैककं ब्रह्म ततो विदुर्बुधाः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org