________________
एकादशमः सर्गः स स्वसैन्यपरिबर्हसंवृतः
सञ्चचार मथुरां पुरी यदुः । भूमिजानिरपि नद्धभूषणो
भूषयन्परिधिचक्रवालताम् ॥१।।
लम्भयन्स शिबिराणि सैनिकान्--
श्रेषयन्प्रसरणैर्द्विषत्पुरः । सज्जयञ्जनपदान्सदाश्रवा
___ नाजगाम पुरगोपुर क्रमात् ।।२।।
इन्द्रनीलवलभीकचा यदु
केतनाक्षतललाममण्डिता । पश्यतीव किल सौधमण्डली
जालकीलितदृशा पुरीवधूः ।।३।।
तोरणालिकलिताकपालिका
शस्तयामुनजलौघसप्तकी । लोलवन्दनकलापकम्पिनी
कामुकी यदुमिवाप्य पूर्वभौ ।।४।।
तं कलिन्दतनयाऽम्बुजेक्षण
र्वीक्ष्य वीचिरचिताकपालिभिः । तद्वियोगमिषमेचकच्छविः
श्लिष्यतीव यदुमागतं चिरात् ।।५।।
तां दुकूलकलिताट्टमालिकां
यौवताध्युषिनचन्द्रशालिकाम् । वीथिकाततवितानशालिनी
सौधमूर्द्धधृतकुम्भकेतनाम् ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org