________________
यदुसुन्दरमहाकाव्य
यत्प्रभूष्णुरपि मूरिविनीतः
कोविदः सुहृदि सौहृदशाली । सद्गुणः परगुणस्तुतितुष्टः
प्राप कोऽपि भुवि भूषणभूयम् ।।६७।।
इत्युदीर्य स समुद्रमहीन्द्र
स्तं निनाय सविधं मगधानाम् । . वासवस्य स निरस्य रुषं त
स्वागतं वपुषि वार्तमपृच्छत् ।।६८।।
स स्वमब्दशतदेशविहार
स्फारकौतुकविलोकनवृत्तम् । उज्जगौ सकलमप्युपराज
तस्थिवत्सु निजबन्धुषु शौरिः ।।६९।।
सम्भ्रान्तैरिह रोहिणीयदुपयोः स्निग्धैस्तदा बान्धवै
___ रुद्वाहो महता महेन विदधे सम्भूय भूयस्तराम् । सौभाग्यं सुभगस्य भाग्यमहिमप्राग्भारतावर्णितैः
स्फारस्फूर्जदमन्दसम्मदसुधासान्द्रोमिपूराप्लुतैः ।।७।।
सर्वे माङ्गल्यनादप्रसृमरपरमामोदमेदस्विनोऽत्र
स्थित्वा कालं कियन्तं क्षितिपतिनिवहास्ते जरासन्धमुख्याः। जग्मुर्देशानथ स्वान्सह सहजनृपः कंसमुख्यैस्तदानीं
सद्यः शौरिः प्रतस्थे निजपुरमवनीपालमालाऽभिवन्द्यः॥७१॥
इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपण्डितेशश्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये
विजयश्रीवरणं नाम दशमः सर्गः ॥१०॥ ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org