________________
यदुसुन्दरमहाकाव्य
स्वस्तिकाजिरतलेषु मौक्तिक
स्वस्तिकै रचितचारुमण्डनाम् । वद्धितो युवतिलाजमोक्षणैः
प्राविशन्निजपुरी यदूद्वहः ॥७॥ ।। युग्मम् ।।
जालकेषु पुरसुन्दरीदृशां
निर्निमेषविनिपातकुल्यया । पीयते स्म यदुरूपचातुरी
__ चारिमाद्भुतसुधारसद्रवः ॥८।।
पौरनायनमरीचिभृङ्गता
सङ्गता यदुमुखारविन्दजाम् । सुन्दरत्वमकरन्दमाधुरी
नौज्झदन्तिकचरी सुपीवरी ॥९।।
द्राक्कुमारनिपुणाः पुराङ्गना
__ लाजमोक्षणपुरस्सराशिषः । कुम्भसम्भृतिकृतोरुमङ्गला
स्तेनिरेऽथ जयशंसिनीयदोः ॥१०।।
पारिजाततरुम मञ्जरी
पिञ्जराः कुसुमपुञ्जवृष्टयः । विद्रुता दिविषदा जगश्रियो
मूर्द्धनि प्रतिभुवो बभुर्विभोः ।।११।।
काचिदच्छमुखचन्द्रचुम्बिनीं
कान्तिनिर्भरसुधां यदुप्रभोः । संस्तवादपि निपीय कामिनी
चन्द्रकान्तमणिवद्व्यदुद्रवत् ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org