________________
१४८
पदमसुन्दरमरिविरचित
अस्मकास्वहह सत्सु महत्सु
क्षुद्र एष किमु राजसुतार्हः । वारलाऽर्हति मरालविलासा--
वच्छटो बलिभुजा न परीष्टिम् ॥२५॥
द्राक्तदेनमुपमृद्य बलेना
च्छिद्यतां वयमुरीकराम । चक्रिरे प्रतिघदष्टनिजोष्ठा
स्तद्वधोद्यममिति प्रवितयं ॥२६॥
अत्यहं किमु करग्रहकृत्यं
स्यादिति प्रणिगदन्नृपवर्गः । सम्मिमेल परिवाह इवाब्धौ
__ यादवप्रशमने हदिनीनाम् ।।२७।।
तत्पदं जगति गन्तुमशक्ता
दुर्जना हि महतामवहेलाम् । तन्वते द्युतिपतेरिव धाम्नां
तामसद्विजकुलान्यमलानाम् ॥२८॥
सत्कलावति जगज्जननेत्रा
नन्दने धवलयत्यपि विश्वम् । पूर्णिमाशशिनि सूचकदृष्टि
लाञ्छनं पटुतया विवृणोति ॥२९।।
मोदते शुकगिरा न बिडालो
नो हरिमंगमदेन मृगस्य । ताण्डवेन शिखिनो मृगयु!
किं गुणैः खलु खलस्य शससेः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org