________________
१४७
यदुसुन्दरमहाकाव्य सूक्तयो जडिमभाजि सदस्येऽ
थाञ्जनादिशिखरे शशिभासः । ऐयरुपगुणा विफलत्वं
वैमनस्यजुषि राजसुतायाम् ॥१९॥
भूपभूमभगणेऽथ कथञ्चित्
सातिग यदुकुलाचलचन्द्रम् । अद्वितीयमनघातमपश्यत्
_पूर्वपक्षविमताविव तत्त्वम् ॥२०॥
रोहिणीव विधुबिम्बमखण्डं
रोहिणी यदुमदूरतरस्था । प्रेममेदुरदृशा मदिराक्षी
वीक्ष्य सम्मदमदं परमाप ॥२१॥
कोऽपि दृष्टिमहिमाद्भुतधर्मा
संस्तुतानपि च तानवधूय । अप्यपूर्वपुरुषेऽत्र निमज्ज्या
__नन्दसुन्दरपदं प्रमिमीते ।।२२।।
सा तदा वरणदामसुकण्ठी
कण्ठपीठ उपकण्ठमुपेत्य । यादवस्य निदधे विदधे तं
वेध्यमाशु विशिखैविषमेषुः ॥२३॥
विद्यया विकृतविग्रहमेतं
वीक्ष्य राजसुतया वृतमाशु । अक्षुभप्रलयवारिधिवत्त
.. द्राजकं स्मयसमीरणकम्प्रम् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org