________________
पद्मसुन्दरसूरिविरचित तत्क्षणादवततार कुमारी
रोहिणी रचितमङ्गलवेषा । आलिभिः परिवृताऽप्यथ मध्ये
राजकं वरणदामकराऽसौ ॥१३॥
सा किमुज्ज्वलरसाम्बुधिवेला
यौवनेन्दुकलयोद्वलितेव । स्मारचापसशिलीमुखमौर्वी
कामिमानससरोजमराली ॥१४॥
चित्तभित्तिषु नरेन्द्रसभायाः
पुत्रिका किमुदटकि नु टकैः । कामकारुविदुषा निपपे ते
राजभिः स्वनयनाञ्जलिपायैः ॥१५॥ ॥ युग्मम् ॥
तत्सदस्यनृपवंशचरित्र
स्फूर्तिकीर्तिगुणकीर्तनमस्याः । शंसति स्म शुचिसौष्ठवग:
. वैत्रिणी पटुतमा पटुसूक्तैः ॥१६॥
.
तत्तदुज्ज्वलकुलानि बलानि
स्फारतारचरितानि नृपाणाम् । सुश्रुतान्यपि मुदे न नलिन्या--
श्चन्द्ररश्मय इवासुरमुष्याः ॥१७॥
पौरुषं कमनवत्कमनीयं
रूपमद्भुतकलाकुशलत्वम् । ही विधिविघटयत्यखिलं तत्
प्राणिनां व्यवसितं प्रतिकूलः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org