________________
Jain Education International
यदुसुन्दर महाकाव्य
कस्यचिच्चटुलवाक्चतुरस्य
स्मेरपङ्कजसनाथकराब्जे ।
शालिनी मृदुलमञ्जुललक्ष्म्या
किं न सम्मदमदं न विधत्ताम् ॥७॥
एककस्य मुकुटाच्छमरीची
बीचयोऽन्यनृपतेर्हृदि हारः ।
कुण्डले श्रवणयोरपरस्या
प्यद्भुताद्भुतरसं ननु गाते ||८||
कुन्दसुन्दररुचीनिचितश्रे-
णीनिबद्धशुचिरागरहस्यम् ।
राजराजिरथ तत्कुलपक्षौ
१९
तद्यशांसि जगदेकमुदेऽपि ॥ ९ ॥
कोऽप्यनङ्गमदघूर्णनपूर्णा
दृष्टिमारचितसाचितरङ्गाम् ।
सन्निधाय विदधावनुलापं
कण्ठलम्बितभुजो निजभृत्ये ॥१०॥
कश्चिदुन्नमितकन्धर एव
प्रेक्षत स्वनववेषविभूषाम् ।
कोऽपि नागलतिकादलपूगं
लीलया दशति मन्दमन्द्रः ॥। ११ ॥
इत्यवेक्ष्य यदुरद्भुतवेषं
राजकं कनकपीठशिरः स्थम् ।
विधयाऽथ परिवर्तितरूपः
स्वैरमेष निषसाद समाजे ||१२||
For Private & Personal Use Only
१४५
www.jainelibrary.org