________________
दशमः सर्गः
स स्वयं विभुररिष्टपुरस्यो
पद्वारं स्वशिबिरं विनिवेश्य । तच्चतुष्पथमपावृतवृत्याऽ
लञ्चकार पदचारविहारैः ॥१॥
रोहिणी रुधिरराजतनूजा
या स्वयम्वरवरे कृतसन्धा । तत्करग्रहमहे समुदीतं . ' राजकं स समुपेत्त्य ददर्श ।।२।।
कोऽपि कण्ठमणिदीप्तिकदम्बे ...
चुम्बितं स्वमुखबिम्बमुदीक्ष्य । अनसनतमनङ्गमिव स्वं
मन्यमान इह मानमुवाह ॥३।।
कोऽपि दर्पणकरः स्वकिरीट
विच्युतं किमपि मौलिशिखाग्रात् । अध्यतिष्ठिपदहयुरखर्व
गर्वपर्वतशिरः स्वमथायम् ॥४॥
लीलया सरसिजं स्वकरेण ।
. भ्रामयन्निह परो मुखलक्ष्म्या । स्पर्द्धमानमुपतर्य स नूनं
तत्तिरस्करणमेव ससर्ज ।।५।। कस्यचिद्विकचवारिजजिष्णू
राजशेखरमणेर्मुखपद्मः । चारुभात उत भङ्गुरभङ्गी
विभ्रमैरपि च लोचनपा ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org