________________
यदुसुन्दरमहाकाव्य
इह दहति हिमानी पुष्कर पुष्करिण्या
मिह मरुवकगुल्मः पल्लवोद्भेदमापन् । अयि ! समयवशाः स्युः सम्पदोऽसम्पदो वा
विधिविलसितलास्यं प्रायशो नैकरूपम् ।।६।।
रजनिरजनि दीर्घा त्वद्रहः केलिसान्द्र
स्तनजघनघनाङ्गश्लेषविश्लेषभीत्या । दिनमथ लघुदीनं भीतभीतं नु शीता
न्ननु गुरुरगुरुर्वा कोऽपि कस्मिन्विवर्ते ॥६२।। यवशिरसि शरारुश्चारुकिंशारुरेषां
खगमुखरमुखानां सस्यसम्पद्विधायी । विलसति नु विलासिस्मारयुद्धात्मरक्षी
___ तव करकरजः किं बालनालाग्रचुम्बी ।।६३॥ किरद्विचकिलाब्जौधं
किल सत्केकिराजितम् । वरं शुचिवलाकौघं
विलसत् के सरः स्थितम् ।।६४॥ ॥तुरगपदबन्ध, कपाटसन्धिबन्ध, चतुष्कारचक्र, गौमूत्रिकादि नानाचित्रावधानबद्धं पद्यम् ।।
हेमन्तवर्णनम।। तव नवभुजवल्लीसौकुमार्य शिरीष
द्रुमकुसुमसमूहः स्पर्द्धया गर्द्धतेऽस्मिन् । कथमिव युवभृङ्गाश्लेषमेष प्रतीच्छ
त्यथ मधुमधुरोक्तैस्तावकैधित्कृतद्धिः ॥६५॥ इह नहि मिहिकांशुदृश्यते छादितेऽस्मिन् ।
नभसि मिहिकयाऽभ्रभ्रान्तिबाधां दधत्या । अहनि मिहिरबिम्बोदामधामापि लुप्तं
भज निजभुजबन्धं शैशिरा वान्ति वाताः ॥६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org