________________
Đર
Jain Education International
पद्मसुन्दर सूरिविरचित
अमलकमललक्ष्मी: प्लोषिता कुन्दवल्ली
मुकुलकुलमाय ! त्वदन्तदीप्ति ततान । इह किल मृगनेत्रारात्रयः किं मृगाक्षि !
त्वमपि मृगयसे नो मद्विधं मृभ्यमीषत् ॥६७॥
पिककुलकलकण्ठात्काकलीक्वाणरम्यः
कलकल इह शान्तः काककोलाहले यत् ।
निबिडजडवितुण्डाडम्बरे प्रस्तुतेऽत्र
क्व च पटुचटुवाचां सत्प्रवाचां प्रकाशः ॥ ६८||
नयननलिनलीलाऽपाङ्गरङ्गत्तरन
स्फुटतरतरलत्वं खञ्जनस्ते व्यनक्ति ।
मधुकरनिकुरुंबोद्धूतपङ्केरुहश्रीः
स्थलकमलतटस्थो वल्गुवल्गत्तमोऽयम् ||६९॥ ।। शिशिरवर्णनम् ॥
तरुणि ! तरुण तेऽयं तुङ्गशृङ्गारभङ्गी
शिखरिशिखरसिन्धुः केलिकल्लोललोला । किमुत रतविलम्बस्त्वत्पदोः पापति में
स्फुटमुकुटमणिश्रीमञ्जरीमञ्जुपुञ्जः ||७०||
इति मधुमधुरेण प्रेमपीयूषसार
स्वतलहरिभरेण प्रेयसी श्रेयसी सां । दयितदयितसूक्तेनानुनीता स्मितेन
स्फुटनिधुवनधाराघोरणि व्याजहार ।। ७१ ।।
अथ मृदुयदुवाणीपञ्चवाणीसहायो
रतिपतितिमानप्रौढिमानं दधानः ।
सुतनु ! नयनभङ्गीभङ्गुरभ्रूविला सै- .
व्यधित धनुरनुस्वं चारुवन्दारुचूडम् ।। ७२ ।।
For Private & Personal Use Only
www.jainelibrary.org