________________
१४०
पद्मसुन्दरसरिविरचित
असकलकलमाग्रं चारुवन्दारुचञ्च्वा
शुकततिरतिहृयामाददाना तनान । घनघनपटलान्तश्चारुचुम्बीन्द्रचाप
श्रियमुपवनवीथीमध्यमध्यासितेयम् ॥५५।।
अथ कथमपि बहीं बहमुज्झाञ्चकार
त्वदलकलतिकायाः स्पर्द्धया कान्तिगर्धी सह सहचरमाने नापमानावरीणो
रुचिररुचिरमपि स्वैश्चन्द्रकैश्चन्द्रकान्तैः ।।५६।।
सरससरसिजानामिष्टगन्धप्रबन्धान्
मधुरमधुकरोक्तिस्फारझकारगीतान् । प्रथयति पवनः स्मागण्यसौजन्यपुण्यः
सहृदयहृदयान्तश्चिच्चमत्कारकारान् ॥५७।।
सारसा रखसारा सा
रुचा ता नवकारिका । कारिकाऽवनता चारु . सारा सा वरसारसा ।।५८।।
अनुलोमप्रतिलोमः॥ ॥शरद्वर्णनम् ।।
हिमगिरिपरिरम्भस्फीतशीतप्रकर्षों
मदकलकलहंसं पद्मखण्डं विधुन्वन् । युवनिधुवनखेदस्वेदविच्छेदकर्ता .
. सुतनु ! न तनुमान हैमनो वाति वातः ।।५८।।
पुलकयति शरीर भीरु ! दन्दस्यते वा
मधुरमधरमेष श्लेषसंरम्भदम्भात् । प्रथयति पृथुरङ्गे कम्पसम्पत्तिमुच्चै
रयमयमयि ! वायुहेमनः कामनः किम् ।।६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org