________________
यदुसुन्दरमहाकाव्य
१३९
दूरमारसरः पूरः
. स्फारतारतरस्वरः । सारसारवरः पार
चारसारतरस्तरः ॥४९॥ षोडशदलं कमलं गोमूत्रिकाचित्रं च ।।
तमालविततच्छाया
तरुच्छुरितभू युतम् । सरो रविप्रबुद्धया नलिन्याऽरिपुतां गतम् ॥५०॥
॥चतुष्कारं चक्रम् ॥ ॥वर्षावर्णनम्।। शरदि नीलमणीरमणीयता
__ नभसि भास्वति भास्वति भाति भा । कमलताऽमलता जलता स्थिता
विशदयाऽऽशुदया सुहितां दृशम् ॥५१॥ तरुणकिरणरोचिश्चण्डमार्तण्डविम्बं ।
सरसि सरसिजौघः प्राप सामोदमोदम् । विसविशसनलुब्धो मानसं मानसौकाः
शरदजनि जनीवोन्निद्रचन्द्रावतंसा ॥५२॥
तरुणतरणिरुच्यं वीक्ष्य दिग्वारवार
स्त्रिय इति रतिरागात्काशहासत्वमापुः । अमलकमलचीनाः स्वच्छगुच्छस्तनोद्धा
हिमहिमकरबिम्बादमादर्शयन्त्यः ॥५३॥
शरदजनि जनोराट् सान्द्रचन्द्रातपत्रा
शुचिरुचिचमरौ धैर्वीजिता काशहासैः । विमलकमलपीठादभ्रशुभ्राभवासा
विशकिशलयलक्ष्म्याऽलङ्कृताऽलङ्कृता सा ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org