________________
पद्मसुन्दरसूरिविरचित स्मारं धनुः किमु पलाशतरोः सुमानि
. मानिन्यथो तरलया सुकटाक्षबाणान् । बाणानुसन्धिनिरता मदनो नितान्तं
तान्तं स्वमद्य मनुतां किमु नोन्मदिष्णुम् ॥३१॥
अयि ! मधुसमये मयेह सार्ध
विचर रविमलयालयान्निवृत्तः । अथ धनददिशं दिशन्ति सौरा हयविसरा विशरारुवल्गनानि ।।३२।।
। एकोनविंशतिभिः कुलकम् ।।
कृतपुबाणगण एष किल ।
स्मरधन्विनो नवसुमप्रसवः । प्रसवत्यथो किशलयं तरुताs
स्य नु तेजनाय नवशाणमिव ॥३३।।
मधुपा मधौ नु नलिनीमधुपा
रचयन्ति झकृतिमिवारचयन् । नवशखनिस्वन इयानवशं
हृदयं वियोगिन उरो हृदयम् ॥३४॥
पिककाकलीकलकलः कलयन्
अथ तारतारतरतूररवम् । अभिषेणन चलचलबलव
न्मदनस्य किं पटुपटूकृतवान् ॥३५॥
नवरसालरसालयमञ्जरी
'मुकुलिताकुलितालिततिर्घना । वनरमा धवमाधवसौष्ठवात्
प्रवितता विततालिरथोऽम्बरे ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org