________________
यदुसुन्दरमहाकाव्य
वारिवाहपरिमुक्तमदभ्रं
वारिवाहविशदोर्मिसरस्याम् । कोमलो वहति वायुरिहाब्जान्
- कोमलो बत जहाति विधुन्वन् ॥२५॥
वनेऽत्र वानीरततिविभासते
सरस्सु वा नीरजपङ्क्तिरुज्ज्वला । पिकस्य कान्ता रणति स्म निर्भर
मधौ न कान्तारगिरं मुदोऽदधाम् ॥२६।।
बिभर्ति कादम्बकदम्बराजितां
तटं तटाकस्य भवत्पराजिताम् । न भीरु ! भूमीरुहतातरङ्गिणी
तटे किमुल्लोलरयैस्तरङ्गिणी ॥२७॥
अयि । प्रकाण्डैर्जरठेऽपि भूरुहा
ङ्गणे गणे या धुरि सा रसालता । न नागवल्लेरपरातिशायिनी
व्यलोक्य तत्क्वापि महारसालता ॥२८।।
सारङ्गता तरलतारतरङ्गसारा
सारङ्गता तरलतारतरङ्गसारा । सारङ्गता तरलतारतरङ्गसारा सारङ्गता तरलतारतरङ्गसारा ॥२९॥
।। महायमकम् ।।
मन्दारवैभवभृतोऽत्र तरुप्रकाण्डा
'मन्दारवैधुतदला मलयानिलौघैः । नानारतं दधति किन्नरौवताति
नानारतं स्थिरतरा युवतेति मत्वा ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org