________________
यदुसुन्दरमहाकाव्य
१३७
सपुलका पुलकाकुलकामिनी
कलितदोलनदोलितदोलया । ननु विभाति विभाऽतिभरादियं गहनभूरणुभूरिविभूतिभिः ॥३७॥
॥सुरभिवर्णनम् ।। अयि ! पिपर्नु तपतुरुपागत
स्तव मनोजमनोरथमद्भुतः । सजलजां जलजां किल शीतता
मतितरां स्पृहया स्पृहयालुकः ॥३८॥ वहति वारि कृशं नु भृशं कृशा
- दयितवर्षणवर्षवियोगिनी । सुनलिनी मलिनीकृतवारिभिः
खगकुलैबकुलैः सवनीधुनी ॥३९॥
न पथिकः पथिकी पथि रागिणीं
स्पृहयतीह विलोलविलोचनाम् । प्रतपनात्तपनस्य पनायितां
गिरमुदारमुदा न वदोऽवदत् ।।४।।
कृतविशालरसालदलस्थिति
मधुकरी न करीरमरीरमत् । न भुजगी भुजगीकृततच्छविः
स्पृशति वहिणवहंगतोरगम् ।।४।।
न च शिरो द्वयसन्द्वयसङ्गत
स्त्यजति तज्जनिमज्जनसज्जनः । वनगजो नगजो नगयोनिज
___ जलमलं सरसीः परिशीलयन् ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org