SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२८ पद्मसुन्दरसूरिविरचित षङ्भीरसैरिह न पल्लविकास्तथाऽऽपुः सौहित्यमुत्तमतमेन यथारसेन । स्त्रैणप्रयुक्तकिलिकिञ्चितसम्भवेन ते सप्तमेन परिहासविलासभाजा ।।६१॥ यः प्रार्थनाचटुशतानि पुरा प्रकुर्व न्नत्याकृतः सुभगमान्यपि मानवत्या । प्रक्षालनस्य निभतोऽञ्जलिमाससञ्ज क्षीरक्षिपाभिरनया स युवाऽवकम्पि ॥६२।। श्यालप्रयुक्तनवनागलतादलानि तेभ्योऽर्पितानि पटमण्डपवासितेभ्यः । ते ज्योतिरिक्षणयुतानि च तानि दृष्ट्वा - जारभ्रमेण विजहुर्दरदष्टपूगाः ।।६३॥ सत्येतराणि पृथगप्युपदीकृतानि रत्नानि लान्तु गदिता इति कूकुदेन । ते तेष्वथैक इह कूटमणिग्रहीता स इत्यह हास्यदाक्ष्यम् ॥६४॥ यद्योतकादिनिखिलं मिथुनोचितं त-- स्प्रादान्नृपः सकलकृत्यविदां वरेण्यः । दाक्षिण्यवानुचितदक्षिणयाऽर्थिनोऽपि प्रामोदयविदितबन्धभिगीतकीर्तिः ॥६५॥ शौरिस्ततस्त्रिचतुराणि दिनानि तत्रो षित्वा स्वयं श्वशुरयोरुपरुन्धनेन । सानन्दमिन्दुकुरु विन्दनिभेरथेऽसा-- वारुह्य बान्धववृतोऽथ पुरः प्रतस्थे ।।६६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002642
Book TitleYadusundara Mahakavya
Original Sutra AuthorPadmasundar
AuthorD P Raval
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy