________________
यदुसुन्दरमहाकाव्य
१२९
आरोहयत्स कनकां स्वयमत्र चान्य
संश्लेषशङ्कितमना विरहेण पित्रोः । अस्राकुलां सपुलकां प्रियसङ्गमेन
द्वैरथ्यरागमनुरागवतीं दधानाम् ।।६७।।
पत्युः प्रगाढपरिरम्भनिपीडितेन
- खिद्यत्तनुः किल भविष्यति कोमलाङ्गी । मत्वा वधू वरयितारमिवात्मयोनिः
श्विद्रोमहर्षमिषतः कठिनीचकार ।।६८।।
आबालभावपरिशीलनताविनीत--
स्वापत्यवत्सलतया स्पृहणीयशीलाम् । तां च प्रहित्य पितरावनुजो वियोग
__ दूनान्तराः कियदहानि भृशं विषेदुः ।।६९।।
हरिश्चन्द्रः शौरि निजसुभटसेनापरिकरः
कियदूरं स्मेरश्चटुचटुलसंलापचतुरः । अनुव्रज्य प्राज्यप्रथितमहिमानं स्वदुहितुः
पतिं व्यावर्तिष्ठ प्रणयनतमौलिनिजपुरीम् ॥७०।।
अये ! सर्वस्वं ते नयननलिनोल्लासमिहिरो
मनस्तुष्टेः कर्ता विदुषि ! यदुभर्ता किमपरम् । परं ब्रह्मेवाऽयं श्रवणमननध्यानपरया
समाराध्यः साक्षादहमिह न कोऽप्यस्मि दुहितः ।।७१।।
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org