________________
१२७
यदुसुन्दरमहाकाव्य आरालिकैः पचनपेषणकर्तनाद्यैः
संस्कृत्य तादृशमिदं निरमायि भोज्यम् । नानारसं सुरभि यत्समयातिवर्ति
सभ्यैरवर्णि परिहासरसातिशायि ॥५५।।
रागासान्द्रनयनभ्रमिभनितान्ध्य
वन्ध्यावलोकनपरं चतुरं विभाव्य । सा पुत्रिकां मृतसिताघटितां विहस्य ।
चिक्षेप भाजन इमां भज वादिनीति ।।५६।।
पक्वान्नगर्भगतकण्टकशूककीट
प्रादुःकृतिप्रहसनैः मुहिताः सदस्याः । सौरस्यसौष्ठवपटिष्ठमपीपदन्न
ते भुञ्जते स्म कवलं प्रतिसन्दिहानाः ॥५७।।
राजाहधूपघनसारसुवासितेन
शीतानिलेन परिशीलितगर्भमम्भः । आस्वाद्य जीवनमहो ! विधिना व्यधायि
तथ्यं हि तुष्टबुरितीदमिदं पियास्ते ॥५८॥
स्त्यानीकृता किमु सुधाऽथ सिता सिता वा
चान्द्रेर्दलै हिमघना किल चन्द्रकान्तिः । आकण्ठमेव दधिवाष्कयिणं त आशु
प्राशुस्तरां सुमधुरं तदिति स्तुवन्तः ॥५९॥
जन्यैरभोजि नवमण्डकचीनवासाः
__ सद्वृत्तमोदककुचोज्ज्वलकूरहारा । क्षीरावसेकिममुखी घृतचारुनेत्रा
जग्धिक्रिया युवतिरच्छपयस्यहास्या ॥६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org