________________
१२६
पद्मसुन्दरसरिविरचित
कश्चित्स्वभाजनगतामपिबद्रसालां
नो रामणीयकमुखानुकृतां रमण्याः । यभूश्चचुम्ब स च हीणतरा पराऽपि
चेलाञ्चलेन चतुरा लपनं जुगोप ।।४९।।
नाकूतमेव मम वेद किमिनितज्ञा
नादृत्य मां गतवतीयमिति प्रतयं । स्तब्धस्य तस्य विनिवृत्य स कास्वकाक्ष
काण्डैर्ददार हृदि हार्दहलाहलात्कैः ॥५०।।
सम्भाविनीति कियदुच्चकुचेयमस्मिन्
व्याहृत्य तस्थुषि पटावृतहृद्वरोरुः । श्रुत्वाऽथ सोत्तरयति स्म करद्वयस्थ
भृङ्गारधारणमिषेण तदग्रतोऽपि ।।५१।।
वृत्तं निधाय निजभोजनभाजनेऽसौ
सन्मोदकद्वयमतीवपुरःस्थितायाः । सन्धाय वक्षसि दृशं करमर्दनानि
चक्रे त्रपानतमुखी सुमुखी बभूव ।।५२।।
वाले ! पिपासुरहमित्युदिता खलेना
दृतेन साऽपि कनकालुकयाऽथ पाथः । यावद्वरस्मितविकस्वरसृक्कणिः स्रा
क्सख्याऽनयन्निव वृते हसितः स तावत् ।।५३!।
प्रागर्थयन्निकृत एष विलासवत्या
तत्सम्मुखं विटपतिः स भुजिक्रियायाम् । क्षिप्त्वाऽङ्गुलीः स्ववदने ननु मार्जिताव
लेहापदेशत इयं परितोऽनुनीता ॥५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org