________________
यदुसुन्दरमहाकाव्य
१२५
प्राज्याज्यभिन्नपरमान्नमदभ्रशुभ्र
खण्डप्रकाण्डरसवत्तरमस्वदन्त । ते तेमनं जतुकजीरकचुक्रकृष्णैः
सार्पिष्कमीषदविकालवणेन सिद्धम् ।।४३।।
तत्रावसेकिमकदम्बकमिन्दुबिम्ब
मानं सुधाम्बुधिधियेव विभज्य मूर्तीः । जक्षुस्तरां त इति दाधिकमाकादि
सद्वेषवारपरिपूरितगर्भमागम् ।।४४।।
अदश्वितं धवलतण्डुलपिष्टसिद्धं
सोपस्कर समलिहन्नथ ते प्रलेहम् । आदम्परेऽपि दकलावणिकानि राजि
कायोगतः कृतचमत्कृतिचुम्बित नि ॥४५॥
मौद्गीं परास्य वितुषां परेवेश्य दालि
मूर्ध्वामिमां चतुर आह तदिङ्गितज्ञः । रुच्योदनेन घटयेत्युदिता विहस्य
सा तं ततः स्म परिवेशयति स्वरागात् ।।४६।।
खण्डं परो घतवरस्य रदागवर्ति
कृत्वा पुरःस्थसुमुखीं कितवः कटाक्षैः । संसूचयत्यधरदंशमियं स्म बिम्ब
शाकं हियाऽभ्युपगमाय दधावमत्रे ॥४७॥
काचिन्निमीलितशा रजनीं विनिद्र
दृष्टया पराऽपि समकेतयदित्यहश्च । अन्याऽधरस्थितकरा कमितुः प्रदोष
मानन्दसान्द्रहृदसौ बुभुजेऽथ भोज्यम् ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org