________________
१२४
पद्मसुन्दरसूरिविरचित
अन्यः स्फुटस्फटिकचत्वरसंस्थिताया
स्तन्व्या वरानमनुबिम्बितमीक्षमाणः । सामाजिकेषु नयनाञ्चलसूचनेन
सांहासिनं स्फुटमचीकरदच्छहासः ॥३७।।
काचिन्निरीक्ष्य तरुणं तरुणी निजालि--
मालिङ्ग्य गाढभुजबन्धनमण्डलेन । आचष्ट सम्मुखमभीककलाभृतं तो
सा स्पृष्टकस्फुटविचेष्टितमेव रागात् ।।३८।।
तत्तत्कटाक्षतरलेक्षणभावहाव
हेलाविलासमृदुवाम्भवभङ्गिरजैः । यूनोमियो मुदिह सा समभून्न यत्र
सञ्चारिका परिचयप्रणयप्रचारः ॥३९।।
बद्धाञ्जलिः खलु खलोऽथ पिपासुरम्भः
क्षिप्तं कयाऽपि पिबति स्म न चास्यमस्याः । तत्तत्प्रतिप्रतिमितं प्रसमीक्ष्य चुम्ब--
न्नाह स्म चुकृतिरवेण तदाप्तिभिक्षाम् ।।४।।
ते वारयात्रिकजना ललनाविलास
स्यावच्छटाः शुचिरसप्रभवा निपीय । आवेशनं रतिपतेर्नलतन्तुनद्ध
वीतंसवद्धनभसङ्गमतामिवापुः ॥४१॥
वैडूर्यवज्रखचितेषु हिरण्मयेषु
पात्रेष्वभित्तकणमच्छमभोजि भक्तम् । जन्यैः सबाष्पमथ मार्दवताधुरीण
सन्माधुरीपरिणतं परिपाकिम तैः ॥४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org