________________
यदुसुन्दरमहाकाव्य
१२
यत्काममोदनमथो कमनीयमिष्टं
श्वित्सर्वतो मुखमतीवपिपासुभिर्वा । अस्या जनीसहजपक्षजनः स्म वाक्यं
सश्लेषमाह यदुनन्दनजन्यलोकैः ॥३१॥
यूना पराऽनु लपिता स्त्रितमाऽसि मे त्व
मेषाऽथ साऽस्य निजमौक्तिकदाम कण्ठे । क्षिप्त्वा चकर्ष तमिहैहि पशुक्रियाव
न्नुदानमेव विहितं त इति ब्रुवाणा ॥३२।।
साचीकृतस्वधमनियुवती युवान
मन्यं निरक्षत निजाक्षिविकूणितेन । सा रागपश्यममुना हृदया विधा स्म
चित्रीयते न किमसम्मुखवेध्यवेधात् ॥३३॥
प्रासिस्विदव्यजनवेलितबाहुवल्ले:
संवीजनवरतनोर्वदनं विलोक्य । उग्रीव एव घनधर्ममिषादपश्यत्
___ कश्चिद्विपश्चिदनिमेषशा वयःस्थः ।।३४॥
रागाईसान्द्रतरदृष्टिपथेऽथ यूनि
तन्व्याः स्मितं कृतकटाक्षनिरीक्षितं वा । हीनम्रताचतुरिमा वचनस्य तस्याः ।
स्वीकारकारणमभूत्प्रतिभूरिवैतत् ॥३५॥
कश्चित्परां सपुलकः स्मरघूर्णमान
दृष्टिस्खलद्गतिविलासवशां नु पश्यन् । कामेषु भीलुक इवाशु विवेश पाद्यं
नीत्वाऽऽगतां चरणयोर्नखविम्बितोऽस्याः ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org