________________
यदुसुन्दरमहाकाव्य
सार्होरुकैरिव चलैः कदलीदलैस्तै
स्तित्सखीरचितमङ्गलमण्डनश्रीः । अभ्राजतास्य कृतरिष्टसुखानुयोगा
तत्तूरतारनिनदैः सितहारहासा ।।७।।
मन्नीतिचञ्चुनिजनायकशङ्किनोऽत्र
सनादनुद्धततरध्वजिनीद्वयस्य । आश्वीयहास्तिपकहास्तिकसादिपद्ग
ध्वानस्ततान सकलाम्बरकम्बुचुम्बी ।।८।।
स्वान्सन्निवेश्य बहिरेतु यदुं तमित्या
ख्यातं पुरोऽभ्यगमदर्द्धपथं नरेन्द्रः । सद्योऽवतीर्णमथ सौधमुखेऽश्वयानात्
प्रावेशयत्कृतसपर्यमयं विलोक्य ॥९॥
भूनायकस्तमथ नायकमनजाया
__ भद्रासनोस्थितचरः सुविसारिदोाम् । शिश्लेष भूधरमिवाध्वगतं प्रवाहो
गानो द्विधाकृततनुहिमवत्प्रसूतः ॥१०॥
स स्वामजामथ यथाविधि राजवंश्य
भूकश्यपाय विततारतरां क्षितिक्षित् । गौरी गिरीन्द्र इव वा गिरिशाय पद्म
नाभाय पद्मनिलयां किल दुग्धसिन्धुः ।।११।।
शौरिविधाय मधुपर्कजसग्धिमेत
- माध्वीकमुग्धमधुराधरलोभलोलः। स्वाराज्यमेव बुभुजे स भुजङ्गराज
राजदभुजो भुवि तया जयवाहिनीशः ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org