________________
१२०
पद्मसुन्दरसरिविरचित
शौरेः. करः परपरासनबद्धकक्षो
जन्याः शयः किल कुशेशयभूतिदस्युः । राजन्वतीति विषये कुशबन्धनार्हा
वेतौ व्यधान्नयचणो ननु तत्पुरोधाः ॥१३॥
जायाकरं यदुकरोपरिसन्निविष्टं
संपश्यमानपुरुषायितमस्मयन्त । पश्याः पुरन्ध्रिविसरा अपि तद्वयस्याः
सम्भाव्य तत्र तमुदर्कवितर्कविज्ञाः ॥१४॥
भूपः प्रसन्नधनदार्पितदिव्यहार
मुद्गच्छदच्छतरलच्छविचाकचिक्यम् । सच्चन्द्रहासमसिमुद्धतवैरिवार
निर्वापणप्रवणमुत्सृजति स्म तस्मै ॥१५॥
कर्णीरथानथ सपुष्परथानदभ्र
शृङ्गीसुवर्णमणिमञ्जुलपुजपूर्णान् । उच्चैर्निगालकलितान्जवनाँस्तुरङ्गान्
द्राक्कूकुदः शतमदाद्यदवे महेभान् ।।१६।।
माणिक्यरत्नमयमुद्यदखण्डचण्ड
रुग्मण्डलप्रतिममुद्धपतग्रहं सः । हैमी स्थगीं वरमणीरमणीयदीप्ति
प्रादात्तथा श्वशुरराङ्दुहितुर्वराय ॥१७॥
तत्राशुशुक्षणिमथो परितः परीत्य
तज्जम्पतिद्वयमतीव पुपोष लक्ष्मीम् । बिम्बं सुमेरुपरिवर्तिसुधाकरस्य
श्विद्रोहिणीपरिवृतं किल शारदीनम् ॥१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org