________________
Jain Education International
|| अष्ठमः सर्गः ॥
राजन्यकैस्तरलतुङ्गतुरङ्गधारा
पारीण केलिकलितैः परितः परीतः ।
आकल्पकल्पितमहर्द्धिपरार्द्धयशोभैः
श्वाशुर्यमन्दिरमथो यदुपः प्रतस्थे ॥ १ ॥
वाराङ्गनाकमलनालमृणालमञ्ज
दोर्वलिचारिचलचामरवीज्यमानः ।
राजा रराज पुरराजपथे जिहानः ॥ २ ॥
आशीःप्रवादपटुमङ्गलमाददानो
नासीरचारिधरणीधवमौलिमाला
रत्नद्युतिद्विगुणदीपकदीप्तिचकैः । शौरेश्च मूचतुरवीतिखुरोत्थधूलि -
ध्वान्तं शशाम निशि जन्यजनप्रयाणे ॥ ३ ॥
पीठालयप्रभुरुदीक्ष्य करग्रहस्य
नेदिष्टमंशकमथ प्रजिघाय दूतम् ।
आहूतये सकलराजकमण्डलस्य
द्राक्स स्वसैनिकवृतोऽत्र समुच्चिकाय ॥४॥
चीनांशुकपचयकल्पनकल्पितेभ
कीशर्क्षकेसरिलता सुमशालवृन्दैः ।
तद्वाहिनीबहुलहास्तिककर्णताल
वातोद्धुतैरपि वियद्विपिनायते स्म ॥५॥
वातप्रवेल्लितसुतोरणभङ्गुरभ्र
व्याजादमान्नु कनकेरितशम्भलीपूः ।
याssमन्त्रणाय यदुपस्य तदेव तस्याः
स स्वैर्बलैर्बलजभूमिमुपाजगाम ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org