________________
यदुसुन्दर महाकाव्य
अनया सखि ! स्त्रितमया महौचिती-चतुरस्रविच्चतुरया धनाधिपः । सुमना अपि स्फुटमकारि दुर्मना
यदुपस्वरूपमनुभूयमानया ॥ ८५ ॥
शुभौवताभ्युदयसार्वभौमता
T
पदवीमुपेयुषितरा कुतस्तराम् । उपवीजितेयमयि यादवेक्षणा
ञ्चलचामरैः सुभगताऽऽतपत्रिता ॥८६॥
इति वाहवाहनगतं सुवासिनीजनलाजमोक्षणविधानवर्द्धितम् ।
सुभगं निरीक्ष्य पुटभेदनाङ्गनाः
पथि संकथां समुदिता विनिर्ममुः ||८७।। ॥ पञ्चभिः कुलकम् ॥
काभिश्चित्प्रसृतस्वदृक्प्रसृतिभिर्भूपस्वरूपामृत
Jain Education International
पीत काभिरदः किरीटमणितासहस्रनेत्र भ्रमात् ।
सुत्रामेति किमिन्दुमण्डलमदोवक्त्रप्रभामण्डल
संश्लिष्टः स्वधिया पराभिरभितो नेत्रे निमील्य प्रभुः ||८८ ||
इति श्रीमत्तपागच्छन भोनभोमणिपण्डित ोत्तम श्रीपद्ममेरुविनेय-पण्डितेश श्रीपद्मसुन्दरविरचिते श्री दुसुन्दरे महाकाव्ये वरालङ्करणं नाम सप्तमः सर्गः ॥७॥
For Private & Personal Use Only
११७
www.jainelibrary.org