________________
११६
Jain Education International
पद्मसुन्दर सूरिविरचित
अपरायणामवलभीपरम्परा
यदुदर्शनोत्सव विनिद्रलोचना |
सुदती सती व्यतियती सुराङ्गना
विभ्रमं स्म दघते रसोर्ध्वगा ॥ ७९ ॥
जनमेलके यदुपवीक्षणक्षण
प्रहितेक्षणेऽप्युपपतिनितम्बिनी ।
अपरा समाश्लिषदथान्तरान्तराऽऽ
नकदुन्दुभीक्षणमहो मुहुर्मुहुः ||८०||
भुवनाग्रचुम्बिकमनीयकामिनी
मुखबिम्बम्बरितमम्बरं दिवा ।
शतचन्द्रसान्द्रमिव तदिदृक्षया
समलक्ष्यताखिलजनैर्नु सङ्गतैः ॥८१॥
नवह जालक मुखानि सुन्दरी
क्षणसुन्दराणि मधुसारसौरभैः ! कलितानि तानि दधिरे नु तन्महे
किल मन्महे शतदलाम्बुजश्रियम् ॥ ८२॥
विधिना विधानविहितैकतानता
परिपाकिमाभ्यसन कौशलेन किम् ! मिथुनं तदेतदनयोः परस्पर
व्यतिषङ्गिणोर्नु निरमाथि निर्भरम् ॥ ८३ ॥
किमु काम एष कनकातपःफल
स्फुटशिल्पिकल्पित इयर्ति मूर्तिमान् ।
यदुनन्दनः किमुत नन्दनद्रुमो
मनुजीभवन्ननु भवादवातरत् ॥८४॥
For Private & Personal Use Only
www.jainelibrary.org