________________
यदुसुन्दरमहाकाव्य
११५
तमथो पुरस्य जगतीपुरन्दरं
प्रमदागणः क्षणनिरीक्षणोन्मनाः । स यियासुराशु विहितप्रसाधनः
समलञ्चकार चतुरश्चतुष्पथम् ।।७३।।
अथ काऽपि कौतुकविलोकनाकुला
. पवमानसामिविधुतस्तनाम्बरा । पुरतश्चलन्त्यकृतमङ्गलोचिता
मुदकुम्भसम्भृतिमिवाशु शौरये ।।७४।।
अपराऽऽलिमीक्षणपरां यदूद्वह
किमुदस्तहस्तलतिकाङ्कदेशतः । किल दर्शयन्त्यनवधानतस्त्रुटत्
तरहारमौक्तिककणैरवर्द्धयत् ॥७५।।
पुरयौवतस्तननिपास्यपङ्कज
स्मितसूनसन्नखरदर्पणावली । किल शस्तवस्तुततिरास सैव त
विकाय भूमघवतो यियासतः ॥७६।।
स च पौरयौवतविनिद्रवारिज
द्युतिचुम्बिनेत्रनिकुरम्बजस्रजा । परिचुम्बितो यदुरहो दिदृक्षुभिः ।
किमु भद्रकुम्भ इव जङ्गमः पपे ॥७७।।
परया रयान्निजकराम्बुजस्थितं
नवनागवल्लिदलमाददानया । लपने स्वकेलिकमल निचिक्षिपे
वदनप्रभारिपुधियेव पश्यया ! ७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org