________________
यदुसुन्दरमहाकाव्य
१११
करिदन्तजेन खलु तद्भुजद्वयी
नवककणेन विसिनी जहास या । वदनप्रभाऽपहृतसारचन्द्रमः
परिपूर्णमण्डलमिवानुकुर्वता ।। ४९ ।।
नवयावकद्रवजरागरञ्जना
दरुणौ तदीयचरणौ रराजतुः । उपगूहनात्तरुणपङ्कजे उष
स्यरुणद्युतेरिव चिरेण जाग्रती ॥ ५० ।।
कृतमन्तुरेष मदनानलः पुरा
प्रसमीक्ष्य भाविदयितं मृगीदृशः । स सरागमूयमभितः पदद्वये
__भजति स्म यावमिषतः किमु स्फुटम् ।। ५१ ।।
पदहंसको नु किमु राजहंसको
सविलासमन्थरगतानि शिक्षितुम् । किल मत्तवारणगतेरुपासना
मिव चक्रतुर्मधुरझकृतिध्वनी ॥ ५२ ॥
घनचन्द्रचन्दनजपङ्कपिच्छिले
शुशुभे मणिग्रथितहारमञ्जरी । किरणच्छलात्स्खलितचिह्निता जग_ युवचेतसां सुवदनास्तनातटे ॥ ५३ ।।
किमु भूषणैः किल निसर्गसुन्दरेऽ
पधनोत्करे वरतनोरलङ्कृतम् । शितिमञ्जिमा ननु कनीनिकामणे
रनुपाधि सिद्ध इह चेत्किमञ्जनैः ।। ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org