________________
११०
पद्मसुन्दरसूरिविरचित
ननु तद्वतंसधृतवारिजद्वयं
नवकामुकस्य कमनान्धताभृतः । नयनाम्बुजद्वयमिदं नु कर्णयो
य॑गलत्तमां किमिव कस्यचिद् ध्रुवम् ॥४३॥
कुसुमायुधः किल तदीयकर्णिका
मणिदीप्तिकिंशुकसुमात्तकार्मुकः । कृततद्विलोचनसरोजसायको
वसुदेवमेव हि शरव्यमैक्षत ॥४४॥
सुदतीमुख कनकरत्नकुण्डले
श्रुतिवल्लिपाशयुगलेन सागसी । शशिमण्डले इव ननाह तत्तुला
द्वयवादिनी किमु विभुत्वशक्तितः ॥४५||
सुमुखीमुखामृतकरस्य कुण्डल
द्वयमध्यगस्य यदुमन्मथोद्भवे । न्यपतत्तरां दुरधुराभिधो ध्रुवं
. किल योग एष विषमेषु भूतिदः ॥४६॥
मधुराधरे मृदुतनोरलक्तक
द्युतिदीप्तये विनिहितं वयस्यया । मदनं विधूय मधु तत्सलालसं
विललास वस्तुमिह किं सुधानिधौ ॥४७॥
किल वल्लकी मधुरगीस्त्रिरेखया
सुतनोर्बभूव मृदुकण्ठकन्दली । सितसप्तशुक्तिजसरानुपेत्य सा
परिवादिनीव विरराज मञ्जुला ॥ ४८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org